(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.96. अध्यायः 096
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे कार्तवीर्यार्जुनोपाख्यानकथनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text

जनमेजय उवाच॥

अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान्।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा॥ 2-96-1(15187)
वैशम्पायन उवाच॥ 2-96-2x(1691)
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता।
राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति॥ 2-96-2(15188)
दुर्योधनं समासाद्य सामात्यं भरतर्षभ।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्॥ 2-96-3(15189)
दुःशासन उवाच॥ 2-96-4x(1692)
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः॥ 2-96-4(15190)
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः॥ 2-96-5(15191)
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्॥ 2-96-6(15192)
दुर्योधन उवाच॥ 2-96-7x(1693)
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः॥ 2-96-7(15193)
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्॥ 2-96-8(15194)
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान्।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति॥ 2-96-9(15195)
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान्।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति॥ 2-96-10(15196)
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः।
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव॥ 2-96-11(15197)
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते॥ 2-96-12(15198)
गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम्॥ 2-96-13(15199)
नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत्।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः॥ 2-96-14(15200)
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः॥ 2-96-15(15201)
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति॥ 2-96-16(15202)
` न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम्।
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः॥ 2-96-17(15203)
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः।
वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः॥ 2-96-18(15204)
शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः।
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन्॥ 2-96-19(15205)
अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना॥ 2-96-20(15206)
धृतराष्ट्र उवाच॥ 2-96-21x(1694)
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः।
तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक॥ 2-96-21(15207)
दुर्योधन उवाच॥ 2-96-22x(1695)
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः।
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः॥ 2-96-22(15208)
ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः।
सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः॥ 2-96-23(15209)
तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः। 2-96-24(15210)
स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम्।
दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम्॥ 2-96-30(15216)
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै।
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः॥ 2-96-31(15217)
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम्।
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम्॥ 2-96-32(15218)
सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः।
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै॥ 2-96-33(15219)
तस्य बाहुसहस्रं तु युध्यतः किल भारत।
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा॥ 2-96-34(15220)
तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना।
ससमुद्राकरा तात विधिनोग्रेण वै जिता॥ 2-96-35(15221)
चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत्।
च राजा महायज्ञानाजहार महाबलः।
प्रशशास महाबाहुर्महीं स च समा बहूः॥ 2-96-36(15222)
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः।
नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह॥ 2-96-37(15223)
ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा।
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे॥ 2-96-38(15224)
तस्मिन्नेव ततः काले रावमो राक्षसैः सह।
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली॥ 2-96-39(15225)
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः।
नित्यं क्रोधपरो धीरो वरदानेन मोहितः॥ 2-96-40(15226)
अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा।
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत्॥ 2-96-41(15227)
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै।
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम्॥ 2-96-42(15228)
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात्।
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम्॥ 2-96-43(15229)
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा।
मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा॥ 2-96-44(15230)
ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली।
समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः॥ 2-96-45(15231)
अवाकिरच्छितशरैः समुद्रं स तु भारत।
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत॥ 2-96-46(15232)
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते।
मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः।
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो॥ 2-96-47(15233)
अर्जुन उवाच॥ 2-96-48x(1696)
देहि सिन्धुपते युद्धमद्यैव त्वरया मम।
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम्॥ 2-96-48(15234)
समुद्र उवाच॥ 2-96-49x(1697)
लोके राजन्महावीर्या बहवो निवसन्ति ये।
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल॥ 2-96-49(15235)
अर्जुन उवाच॥ 2-96-50x(1698)
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्।
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे॥ 2-96-50(15236)
समुद्र उवाच॥ 2-96-51x(1699)
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः।
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति॥ 2-96-51(15237)
दुर्योधन उवाच॥ 2-96-52x(1700)
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः।
नारदस्य च वै पूर्वं क्रोधेन महता वृतः॥ 2-96-52(15238)
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत।
स तमाश्रममागत्य काममेवान्वपद्यत॥ 2-96-53(15239)
स कामं प्रतिकूलानि चकार सह बन्धुभिः।
आयासं जनयामास रामस्य स महात्मनः॥ 2-96-54(15240)
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः।
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा॥ 2-96-55(15241)
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव॥ 2-96-56(15242)
ततः परशुमादाय नृपं बाहुसहस्रिणम्।
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्॥ 2-96-57(15243)
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः।
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन्॥ 2-96-58(15244)
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः।
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली॥ 2-96-59(15245)
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः।
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव॥ 2-96-60(15246)
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्॥ 2-96-61(15247)
तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह।
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः॥ 2-96-62(15248)
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः।
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च॥ 2-96-63(15249)
ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता॥ 2-96-64(15250)
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि।
क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः॥ 2-96-65(15251)
तथैव तं महात्मानमृचीकप्रमुखास्तथा।
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन्॥ 2-96-66(15252)
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन्।
नार्हा हन्त भवन्तो मां निवारयितुमित्युत॥ 2-96-67(15253)
पितर ऊचुः। 2-96-68x(1701)
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर।
न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान्॥ 2-96-68(15254)
दुर्योधन उवाच॥ 2-96-69x(1702)
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः।
अश्वमेधसहस्राणि नरमेधशतानि च॥ 2-96-69(15255)
इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम्।
तेन रामेण सङ्ग्रामे तुल्यस्तात दयञ्जयः॥ 2-96-70(15256)
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः।
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते॥ ॥ 2-96-71(15257)

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि षण्णवतितमोऽध्यायः॥96 ॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-96-4 गमयत् अगमयत्॥ 2-96-9 परिहास्यति नङ्क्ष्यति॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.